|
|
 |
 |
|
|
४ विराटपर्व.jpg)
॥ श्रीः ॥
4.5. अध्यायः 005
Mahabharata - Virata Parva - Chapter Topics
पाण्डवैरिन्द्रसेनादीन्प्रति द्वारकादिगमनचोदना ॥ 1 ॥
पाण्डवान्प्रति धौम्येन राजगृहवासप्रकारानुशासनम् ॥ 2 ॥
Mahabharata - Virata Parva - Chapter Text
युधिष्ठिर उवाच। 4-5-0x(2989)(28290)
कर्माण्युक्तानि युष्माभिर्यानि तानि चरिष्यथ।
मम चापि यथा बुद्धिरुचिता हि विनिश्चयात् ॥ 4-5-1(28291)
पुरोहितोऽयमस्माकमग्निहोत्राणि रक्षतु।
सूतपौरोगवैः सार्धं द्रुपदस्य निवेशने ॥ 4-5-2(28292)
इन्द्रसेनमुखाश्चेमे रथानादाय केवलान् ।
यान्तु द्वारवतीं शीघ्रमिति मे वर्तते मतिः ॥ 4-5-3(28293)
इमाश्च नार्यो द्रौपद्याः सर्वाश्च परिचारिका ।
पाञ्चालानेव गच्छन्तु सूतपौरोगवैः सह ॥ 4-5-4(28294)
सर्वैरपि च वक्तव्यं न प्राज्ञायन्त पाण्डवाः ।
अर्धरात्रे महात्मानो भिक्षादान्ब्राह्मणानपि।
गता ह्यस्मानपाहाय सर्वे द्वैतवनादिति ॥ 4-5-5(28295)
वैशम्पायन उवाच। 4-5-6x(2990)
एवं तेऽन्योन्यमामन्त्र्य कर्माण्युक्त्वा पृथक्पृथक्।
धौम्यमामन्त्रयामासुः स च तान्मन्त्रमब्रवीत् ॥ 4-5-6(28296)
तानन्वशात्स धर्मात्मा सर्वधर्मविशेषवित् ।
धौम्यः पुरोहितो राजन्पाण्डवान्पुरुषर्षभान् ॥ 4-5-7(28297)
धौम्य उवाच। 4-5-8x(2991)
विदितं वै यथा सर्वं लोके वृत्तमिदं नृप।
विदिते चापि वक्तव्यं सुहृद्भिरनुरागतः ॥ 4-5-8(28298)
अतोऽहमभिवक्ष्यामि हेतुमात्रं निबोधत।
हन्तेमां राजवसतिं राजपुत्रा ब्रवीमि वः।
यथा राजकुलं प्राप्य चरन्प्रोष्य न रिष्यति ॥ 4-5-9(28299)
दुर्वासमेव कौरव्य जातेन कुरुवेश्मनि ।
अमानितेन मानार्ह गूढेन परिवत्सरम् ॥ 4-5-10(28300)
दिष्टद्वारो लभेद्द्रष्टुं राजस्वेषु न विश्वसेत्।
न चानुशिष्याद्राजानमपृच्छन्तं कदाचन ॥ 4-5-11(28301)
तूष्णीं त्वेनमुपासीत काले समभिपूजयेत् ॥ 4-5-12(28302)
असूयन्ति हि राजानो जनाननृतवादिनः।
तथैव चावमन्यन्ते मन्त्रिणं वादिनं मृषा ॥ 4-5-13(28303)
विदिते चास्य कुर्वीत कार्याणि सुलघून्यपि।
एवं विचरतो राज्ञि न क्षतिर्जायते क्वचित् ॥ 4-5-14(28304)
पाण्डवाग्निरयं लोके सर्वशस्त्रमयो महान ।
भर्ता गोप्ता च भूतानां राजा पुरुषविग्रहः ॥ 4-5-15(28305)
सर्वात्मना वर्तमानं यथा दोषो न संस्पृशेत् ।
राजानमुपतिष्ठन्तं तस्य वृत्तं निबोधत ॥ 4-5-16(28306)
क्षत्रियं चैव सर्पं च ब्राह्मणं च बहुश्रुतम् ।
नावमन्येत मेधावी कृशानपि कदाचन ॥ 4-5-17(28307)
एतत्रयं च पुरुषं निर्दहेदवमानितम्।
राजा तस्माद्बुधैर्नित्यं पूजनीयः प्रयत्नतः ॥ 4-5-18(28308)
नातिवर्तेत मर्यादां पुरुषो राजसंमतः।
व्यवहारं पुनर्लोके मर्यादां पण्डिता विदुः ॥ 4-5-19(28309)
न हि पुत्रं न नप्तारं न भ्रातरमरिन्दम।
समतिक्रान्तमर्यादं पूजयन्ति पराधिपाः ॥ 4-5-20(28310)
गच्छन्नपि परां भूतिं भूमिपालनियोजितः।
जात्यन्ध इव मन्येत मर्यादामनुचिन्तयन् ॥ 4-5-21(28311)
धृष्टो द्वारं सदा पश्यन्न च राजसु विश्वसेत् ।
तदेवासनमन्विच्छेद्यत्र नाभिलषेत्परः ॥ 4-5-22(28312)
यत्रोपविष्टः संकल्पं नोपहन्याद्बलीयसः ।
तदासनं राजकुले ईप्सेत पुरुषो वसन् ॥ 4-5-23(28313)
यथैनं यत्र चासीनं शङ्कयेद्दुष्टचरिणम् ।
न तत्रोपविशेज्जातु यो राजवसतिं वसेत् ॥ 4-5-24(28314)
स्वभूमौ काममासीत तिष्ठेद्वा राजसन्निधौ।
न त्वेवासनमन्यस्य प्रार्थयेत कदाचन ॥ 4-5-25(28315)
परासनगतं ह्येनं परस्य परिचारकाः ।
परिषद्यपकर्षेयुः परिहास्येत शत्रुभिः ॥ 4-5-26(28316)
नित्यं विप्रतिषिद्धं तत्पुरस्तादासनं मतम् ।
अर्थार्थं हि यदा भृत्यो राजानमुपतिष्ठते ॥ 4-5-27(28317)
दक्षिणं वाऽथ वामं वा भागमाश्रित्य पण्डितः।
तिष्ठेद्विनीतवद्राजन्न पुरस्तान्न पृष्ठतः।
राक्षिणामात्तशस्त्राणां पश्चात्स्थानं विधीयते ॥ 4-5-28(28318)
मातृगोत्रे स्वगोत्रे वा नाम्ना शीलेन वा पुनः ।
संग्रहार्थं मनुष्याणां नित्यमाभाषिता भवेत् ॥ 4-5-29(28319)
पूज्यमानोपि यो राज्ञा नरो न प्रतिपूजयेत्।
नैनमाराधयेज्जातु शास्ता शिष्यानिवालसान् ॥ 4-5-30(28320)
नास्य युग्यं न पर्यङ्कं नासनं न रथं तथा।
आरोहेत्संमतोऽस्मीति यो राजवसतिं वसेत् ॥ 4-5-31(28321)
यो वै गृहेभ्यः प्रवसन्क्रियमाणमनुस्मरन् ।
उत्थाने नित्यसंकल्पो निस्तन्द्रीः संघतात्मवान् ॥ 4-5-32(28322)
परीतः क्षुत्पिपासाभ्यां विहाय परिदेवनम् ।
दुःखेन सुखमन्विच्छेद्यो राजवसतिं वसेत् ॥ 4-5-33(28323)
अन्येषु प्रेष्यमाणेषु पुरस्ताद्धीर उत्पतेत् ।
करिष्याम्यहमित्येव यः स राजसु सिध्यति ॥ 4-5-34(28324)
उष्णे वा यदि वा शीते रात्रौ वा यदि वा दिवा ।
आदिष्टो न विकल्पेत यः स राजसु सिद्ध्यति ॥ 4-5-35(28325)
नैव प्राप्तोऽवमन्येत सदाऽमात्यो विशारदः ।
मानं प्राप्तो न हृष्येत न व्यथेच्च विमानितः ।
ऋदुर्मृदुः सत्यवादो यः स राजसु सिद्ध्यति ॥ 4-5-36(28326)
नैव लाभाद्धर्षमियान्न व्यथेच्च विमानितः।
समः पूर्णतुलेव स्याद्यो राजवसतिं वसेत् ॥ 4-5-37(28327)
अल्पेच्छो धृतिमान्राजञ्छायेवानुगतः सदा।
दक्षः प्रदक्षिणो धीरः स राजवसतिं वसेत् ॥ 4-5-38(28328)
इतिहासपुराणज्ञः कुशलः सत्कथासु च।
वदान्यः सत्यवाक्वापि यो राजवसतिं वसेत् ॥ 4-5-39(28329)
न मिथो भाषितं राज्ञो मनुष्येषु प्रकाशयेत् ।
यं चासूयन्ति राजानः पुरुषं नो वदेच्च तम् ॥ 4-5-40(28330)
नैषां कर्मसु संयुक्तो धनं किंचिदुपस्पृशेत्।
प्राप्नुयादाददानो वा बन्धं वा वधमेव वा ॥ 4-5-41(28331)
हुल्योपस्थितयोः पश्य मम चान्यस्य चोभयोः ।
अन्यं पुष्णाति मद्धीनमिति धीरो न मुह्यति ॥ 4-5-42(28332)
श्रेयांसं हि परित्यज्य वैद्यं कर्मणिकर्मणि ।
पापीयांसं प्रकुर्वीरञ्शीलमेषां तथाविधम् ॥ 4-5-43(28333)
नैषां दारेषु कुर्वीत प्राज्ञो मैत्रीं कथंचन ।
रक्षणं तु न सेवेत यो राजवसतिं वसेत् ॥ 4-5-44(28334)
यदा ह्यभिसमीक्षेत प्रेष्यं स्त्रीभिः समागतम् ।
बुद्धिः परिभवेत्तस्य राजा शङ्केत वा पुनः ॥ 4-5-45(28335)
शङ्कितस्य पुनः स्त्रीषु कस्य भृत्यस्य भूमिपः।
जीवितं साधु मन्येत प्रकृतिस्थो बलात्कृतः ॥ 4-5-46(28336)
हर्षवस्तुषु चाप्यत्र वर्तमानेषु केषु चित्।
नातिगाढं प्रहृष्येत तान्येवास्यानुपूजयेत् ॥ 47 ॥ 4-5-47(28337)
हर्षाद्धि मन्दः पुरुषः स्वैरं कुर्वीत वैकृतम् ।
तदस्यान्तःपुरे वृत्तमीक्षां कुर्वीत भूमिपः ॥ 4-5-48(28338)
अन्तःपुरगतं ह्येनं स्त्रियः क्लीबाश्च सर्वतः ।
वर्तमानं यथावच्च कुत्सयेयुरसंशयम् ॥ 4-5-49(28339)
तस्माद्गम्भीरमात्मानं कृत्वा हर्षं नियम्य च।
नित्यमन्तःपुरे राज्ञो न वृत्तं कीर्तयेद्बहिः ॥ 4-5-50(28340)
यथा हि सुमहामन्त्रो भिद्यमानो हरेत्सुखम्।
एवमन्तःपुरे वृत्तं श्रूयमाणं बहिर्भवेत् ॥ 4-5-51(28341)
या तु वृत्तिरबाह्यानां बाह्यानामपि केवलम्।
उभयेषां समस्तानां शृणु राजोपजीविनाम् ॥ 4-5-52(28342)
न स्त्रियो जातु मन्येत बाह्ये वाभ्यन्तरेऽपि वा ।
अनुजीविनां नरेन्द्रस्तु सृजेद्धि सुमहद्भयम् ॥ 4-5-53(28343)
मत्वाऽस्य प्रियमात्मानं राजरत्नानि राजवत्।
अराजा राजयोग्यानि नोपयुञ्जीत पण्डितः ॥ 4-5-54(28344)
अराजानं हि रत्नानि राजकान्तानि राजवत्।
भुञ्जानं तं नरं राजा न तितिक्षेत जीवितम् ॥ 4-5-55(28345)
तस्मादव्यक्तभोगेन भोक्तव्यं भूतिमिच्छता ।
तुल्यभोगं हि राजा तु भृत्यं कोपेन योजयेत् ॥ 4-5-56(28346)
न चापत्येन संप्रीतिं राज्ञः कुर्वीत केनचित् ।
अधिक्षिप्तमनर्थं च द्वेष्यं च परिवर्जयेत् ॥ 4-5-57(28347)
एतां हि सेवमानस्य नरसीमां चतुर्विधाम्।
द्विधा विच्छिद्यते मूलं राजमूलोपसेविनः ॥ 4-5-58(28348)
एतैस्तु विपरीता या नरसीमा नराधमैः ।
तथा कुर्वीत संसर्गं न विरोधं कथंचन ॥ 4-5-59(28349)
बन्धुभिश्च नरेन्द्रस्य बलवद्भिश्च मानवैः ।
साधु मन्येत संसर्गं न विरोधं कथंचन ॥ 4-5-60(28350)
ताभ्यां तु नरसीमाभ्यां विरुद्धस्याल्पतेजसः ।
प्रथमं छिद्यते मूलं द्वितीयं जायते भयम् ॥ 4-5-61(28351)
उद्धतानां च यो वेषः कुहकानां च यो भवेत् ।
राजवेषं च विस्पष्टं सेवमानो न वर्धते।
इतराभ्यां तु वेषाभ्यां परिहास्येत बान्धवैः ॥ 4-5-62(28352)
अपुंभिश्चैव पुंभिश्च स्त्रीभिः स्त्रीदर्शिभिर्नरैः ।
शक्ये सति न संभाषां जातु कुर्वीत कर्हिचित् ॥ 4-5-63(28353)
प्रतिसंभाषमाणो हि त्रिभिरेतैरचेतनः।
श्येनः पेशीमिवादत्ते पुरुषो भूतिमात्मनः ॥ 4-5-64(28354)
ये च राज्ञाऽभिसत्कारं लभेरन्कारणादिव।
तैश्च सामन्तदूतैश्च न संसज्येत कर्हिचित् ॥ 4-5-65(28355)
न चान्याचरितां भूमिमसंदिष्टो महीपतेः।
उपसेवेत मेधावी यो राजवसतिं वसेत् ॥ 4-5-66(28356)
न च संदर्शने राज्ञां प्रबन्धमभिसंजपेत् ।
अपि चैतद्दरिद्राणां व्यलीकस्थानमुत्तमम् ॥ 4-5-67(28357)
अर्थकामा च या नारी राजानं स्यादुपस्थिता।
अनुजीवी तथायुक्तां निध्यायन्दुष्यते च सः ॥ 4-5-68(28358)
तस्मान्नारीं न निध्यायेत्तथायुक्तां विचक्षणः।
तथा क्षुतं च वातं च निष्ठीवं चाचरेच्छनैः ॥ 4-5-69(28359)
न नर्मसु हसेज्जातु मूढवृत्तिर्हि सा स्मृता ।
स्मितं तु मृदुपूर्वेण दर्शयीत प्रसादजम् ॥ 4-5-70(28360)
न चाक्षौ न भुजौ जातु न च वाक्यं समाक्षिपेत्।
न च तिर्यगवेक्षेत चक्षुर्भ्यां सम्यगाचरेत् ॥ 4-5-71(28361)
भ्रुकुटिं च न कुर्वीत न चाङ्गुष्ठैर्लिखेन्महीम्।
न च गाढं विजृम्भेत जातु राज्ञः समीपतः ॥ 4-5-72(28362)
न प्रशंसेन्ना चासूयेत्प्रियेषु च हितेषु च ।
स्तूयमानेषु वा तत्र दूष्यमानेषु वा पुनः ॥ 4-5-73(28363)
अथ संदृश्यमानेषु प्रियेषु च हितेषु च।
श्रूयमाणेषु वाक्येषु वर्णयेदमृतं यथा ॥ 4-5-74(28364)
न राज्ञः प्रतिकूलानि सेवमानः सुखी भवेत्।
पुत्रो वा यदि वा भ्राता यद्यप्यात्मसमो भवेत् ॥ 4-5-75(28365)
अप्रमत्तो हि राजानं रञ्जयेच्छीलसंपदा।
उत्थानेन तु मेधावी शौचेन विविधेन च ॥ 4-5-76(28366)
स्नानं हि वस्त्रशुद्धिश्च शारीरं शौचमुच्यते।
असक्तिः प्राकृतार्थेषु द्वितीयं शौचमुच्यते ॥ 4-5-77(28367)
राजा भोजो विराट् सम्राट् क्षत्रियो भूपतिर्नृपः ।
य एतैः स्तूयते शब्दैः कस्तं नार्चितुमर्हति ॥ 4-5-78(28368)
तस्माद्भक्त्या च युक्तः सन्सत्यवादी जितेन्द्रियः ।
मेधावी धृतिमान्प्राज्ञः संश्रयीत महीपतिम् ॥ 4-5-79(28369)
कृतज्ञं प्राज्ञमक्षुद्रं दृढभक्तिं जितेन्द्रियम् ।
वर्धमानं स्थितं स्थाने संश्रयीत महीपतिम् ॥ 4-5-80(28370)
एष वः समुदाचारः समुद्दिष्टो यथाविधि ।
यथार्थान्संप्रपत्स्यन्ते पार्थ राजोपजीविनः ॥ 4-5-81(28371)
संवत्सरमिमं तावदेवंशीला बुभूषथः ।
ततः स्वविषयं प्राप्य यथाकामं चरिष्यथ ॥ 4-5-82(28372)
वैशम्पायन उवाच। 4-5-83x(2992)
तं तथेत्यब्रुवन्पार्थाः पितृकल्पं यशस्विनम्।
प्रहृष्टाश्चाभिवाद्यैनमुपातिष्ठन्परंतपाः ॥ 4-5-83(28373)
तेषां प्रतिष्ठमानानां मन्त्रांश्च ब्राह्मणोऽजपत्।
भवाय राज्यलाभाय वीर्याय विजयाय च ॥ 4-5-84(28374)
ततोऽब्रवीदसौ विप्रो वाचमाशीः प्रयुज्य च।
स्वद्रव्यप्रतिलाभाय शत्रूणां मर्दनाय च ॥ 4-5-84(28375)
स्वस्ति वोस्तु शिवः पन्था द्रक्ष्यामि पुनरागतान्।
इत्युक्ता हृष्टमनसो गुरुणा तेन धीमता। 4-5-85(28376)
युधिष्ठिरमुखाः सर्वे गन्तुं समुपचक्रमुः ॥ ॥ 4-5-86(28377)
इति श्रीमन्महाभारते विराटपर्वणि पाण्डवप्रवेशपर्वणि पञ्चमोऽध्यायः ॥ 5 ॥
Mahabharata - Virata Parva - Chapter Footnotes
4-5-15 पाण्डवाग्निरिति पाण्डवेति छेदः। राजा पुरुषविग्रहोऽग्निरित्यन्वयः ॥ 15 ॥ 4-5-61 प्रथमं छिद्यते निद्रा इति थo धo पाठः ॥ 61 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|